|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.66. अध्यायः 066
Mahabharata - Karna Parva - Chapter Topics
कर्णबाणपीडितस्य युधिष्ठिरस्य विश्रमाय स्वशिबिरप्रवेशः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-66-0x(4992)(58220)
कर्णोऽपि शरजालेन केकयानां महारथान्।
व्यधमत्परमेष्वासानग्रानीके व्यवस्थितान्॥ 8-66-1(58221)
तेषां प्रयतमानानां राधेयस्य निवारणे।
रथान्पञ्चशतान्कर्णः प्राहिणोद्यमसादनम्॥ 8-66-2(58222)
अविषह्यतमं दृष्ट्वा राधेयं युधि योधिनः।
भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः॥ 8-66-3(58223)
रथानीकं विदार्यैव शरै राजन्ननेकधा।
कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत्॥ 8-66-4(58224)
सेनानिवेशं गच्छन्तं मार्गणैर्भृशपीडितम्।
यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम्॥ 8-66-5(58225)
स समासाद्य राजानं दुर्योधनहितेप्सया।
सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः॥ 8-66-6(58226)
तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे।
शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान्॥ 8-66-7(58227)
चक्ररक्षौ नृपसुतौ माद्रीपुत्रौ परन्तपौ।
तावप्यधावतां कर्णं राजानं मा वधीदिति॥ 8-66-8(58228)
तौ पृथक्शरवर्षाभ्यां राधेयं समवर्षताम्।
नकुलः सहदेवश्च परमं यत्नमास्थितौ॥ 8-66-9(58229)
तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान्।
भल्लाभ्यां शितधाराभ्यां महात्मानावरिन्दमौ॥ 8-66-10(58230)
दन्तवर्णांस्तु राधेयो निजघान मनोजवान्।
युधिष्ठिरस्य सङ्ग्रामे कालवालान्हयोत्तमान्॥ 8-66-11(58231)
ततोऽपरेण भल्लेन शिरस्त्राणमपातयत्।
कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः॥ 8-66-12(58232)
तथैव नकुलस्यापि हयान्हत्वा महारथः।
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन भारत।
धनुश्चिच्छेद वीरस्य माद्रीपुत्रस्य धीमतः॥ 8-66-13(58233)
तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ।
भ्रातरावारुरुहतुः सहदेवरथं तदा॥ 8-66-14(58234)
तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा।
अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया॥ 8-66-15(58235)
मार्गितव्यस्त्वया कर्ण कुन्तीपुत्रो धनञ्जयः।
अतस्त्वं धर्मराजेन किमर्थमिह युध्यसे॥ 8-66-16(58236)
[क्षीणशस्त्रास्त्राकवचः क्षीणबाणो विबाणधिः।
श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा।
पार्थमासाद्य राधेय उपहास्यो भविष्यसि॥] 8-66-17(58237)
तथापि कर्णः संरब्धो युधिष्ठिरमपीडयत्।
शरैस्तीक्ष्णैर्महावीर्यैर्माद्रीपुत्रौ च पाण्डवौ॥ 8-66-18(58238)
ततः शल्यः प्रहस्येदं कर्णं पुनरुवाच ह।
रथस्थमतिसंरब्धं युधिष्ठिरवधे स्थितम्॥ 8-66-19(58239)
यदर्थं धार्तराष्ट्रेण सततं मानितो भवान्।
तं पार्थ जहि राधेय किं ते हत्वा युधिष्ठिरम्।
`हते यस्मिन्ध्रुवं पार्थः सर्वाञ्जेष्यति नो रथान्॥ 8-66-20(58240)
तस्मिन्हि धार्तराष्ट्रस्य निहते तु ध्रुवो जयः।
ध्वजोऽसौ दृश्यते तस्य रोचमानोंऽशुमानिव।
सारो ह्येष महाबाहो किं ते हत्वा युधिष्ठिरम्॥' 8-66-21(58241)
शङ्खयोर्ध्मातयोः शब्दः सुमहानेष कृष्णयोः।
श्रूयते चापघोषश्च प्रावृषीवाम्बुदस्य ह॥ 8-66-22(58242)
असौ निघ्नन्रथोदारानर्जुनः शरवृष्टिभिः।
सर्वां ग्रसति नः सेनां कर्ण पश्यैनमाहवे॥ 8-66-23(58243)
पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ॥ 8-66-24(58244)
उत्तरं चास्य वै शूरश्चक्रं रक्षति सांत्यकिः।
धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम्॥ 8-66-25(58245)
भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते।
यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम्।
कुरु राधेय वै राजा यथा मुच्येत तत्तथा॥ 8-66-26(58246)
xxxx भीमसेनेन ग्रस्तमाहवशोभिना।
यदि नामाद्य मुच्येत विस्मयः सुमहान्भवेत्॥ 8-66-27(58247)
परित्राह्येनमभ्येत्य संशयं परमं गतम्।
किं नु माद्रीसुतौ हत्वा राजानं वा युधिष्ठिरम्॥ 8-66-28(58248)
इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते।
दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे॥ 8-66-29(58249)
राजगृध्नुर्भृशं चैव शल्यवाक्यप्रचोदितः।
अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ॥ 8-66-30(58250)
तव पुत्रं परित्रातुमभ्यधावत वीर्यवान्।
मद्रराजप्रणुदितैरश्वैराकाशगैरिव॥ 8-66-31(58251)
गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः।
अपायाज्जवनैरश्वैः सहदेवस्य मारिष॥ 8-66-32(58252)
[ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः]।
प्राप्य सेनानिवेशं स्वं मार्गणैर्भृशविक्षतः॥ 8-66-33(58253)
अवतीर्य रथात्तूर्णमाविशच्छयनं शुभम्।
अपेतशल्यो राजा तु हृच्छल्येनाभिपीडितः॥ 8-66-34(58254)
सोऽब्रवीद्धातरौ राजा माद्रीपुत्रौ महारथौ।
गच्छन्त त्वरितौ वीरौ यत्र भीमो व्यवस्थितः॥ 8-66-35(58255)
`ततस्ते पाण्डवाः सर्वे समाभाष्य परस्परम्।
अनीकं भीमसेनस्य पाण्डवावभ्यगच्छताम्'।
जीमूत इव नर्दंस्तु युध्यते स वृकोदरः॥ 8-66-36(58256)
ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः।
सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्शनौ॥ 8-66-37(58257)
तुरगैरग्र्यरंहोभिर्यत्र भीमस्तरस्विनौ।
अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ॥ ॥ 8-66-38(58258)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्षष्टितमोऽध्यायः॥ 66 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|